|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.212. अध्यायः 212
Mahabharata - Adi Parva - Chapter Topics
इन्द्रसेनापरनाम्न्या नालायन्या उपाख्यानारम्भः-नालायन्या स्थविरस्य पत्युर्मौद्गल्यस्य आराधनम्॥ 1 ॥ तुष्टेन मौद्गल्येन नालायनीप्रार्थनयाऽऽत्मनः पञ्चरूपस्वीकारेण तस्यां रमणम्॥ 2 ॥ तयोः स्वर्गादिलोकेषु नानारूपेण रमणम्॥ 3 ॥ सैव नालायनी तव दुहिता जातेति द्रुपदं प्रति व्यासस्योक्तिः॥ 4 ॥
Mahabharata - Adi Parva - Chapter Text
व्यास उवाच। 1-212-0x(1175)(9269)
मा भूद्राजंस्तव तापो मनस्थः
पञ्चानां भार्या दुहिता ममेति।
मातुरेषा प्रार्थिता स्यात्तदानीं
पञ्चानां भार्या दुहिता ममेति॥ 1-212-1(9270)
याजोपयाजौ धर्मरतौ तपोभ्यां
तौ चक्रतुः पञ्चपतित्वमस्याः।
तत्पञ्चभिः पाण्डुसुतैरवाप्ता
भार्या कृष्णा मोदतां वै कुलं ते॥ 1-212-2(9271)
लोके नान्यो विद्यते त्वद्विशिष्टः
सर्वारीणामप्रधृष्योऽसि राजन्।
भूयस्त्विदं शृणु मे त्वं विशोको
यथाऽऽगतं पञ्चपत्नीत्वमस्याः॥ 1-212-3(9272)
एषा नालायनी पूर्वं मौद्गल्यं स्थविरं पतिम्।
आराधयामास तदा कुष्ठिनं तमनिन्दिता॥ 1-212-4(9273)
त्वगस्थिभूतं कटुकं लोलमीर्ष्युं सुकोपनम्।
सुगन्धेतरगन्धाढ्यं वलीपलितमूर्धजम्॥ 1-212-5(9274)
स्थविरं विकृताकारं शीर्यमाणनखत्वचम्।
उच्छिष्टमुपभुञ्जाना पर्युपास्ते महामुनिम्॥ 1-212-6(9275)
ततः कदाचिदङ्गुष्ठो भुञ्जानस्य व्यशीर्यत।
अन्नादुद्धृत्य तच्चान्नमुपभुङ्क्तेऽविशङ्किता॥ 1-212-7(9276)
तेन तस्याः प्रसन्नेन कामव्याहारिणा तदा।
वरं वृणीष्वेत्यसकृदुक्ता वव्रे वरं तदा॥ 1-212-8(9277)
मौद्गल्य उवाच। 1-212-9x(1176)
नाहं वृद्धो न कटुको नेर्व्यावान्नैव कोपनः।
न च दुर्गन्धवदनो न कृशो न च लोलुपः॥ 1-212-9(9278)
कथं त्वां रमयामीह कथं त्वां वासयाम्यहम्।
वद कल्याणि भद्रं ते यथा त्वं मनसेच्छसि॥ 1-212-10(9279)
व्यास उवाच। 1-212-11x(1177)
सा तमक्लिष्टकर्माणं वरदं सर्वकामदम्।
भर्तारमनवद्याङ्गी प्रसन्नं प्रत्युवाच ह॥ 1-212-11(9280)
नालायन्युवाच। 1-212-12x(1178)
पञ्चधा प्रविभक्तात्मा भगवांल्लोकविश्रुतः।
रमय त्वमचिन्त्यात्मन्पुनश्चैकत्वमागतः॥ 1-212-12(9281)
तां तथेत्यब्रवीद्धीमान्महर्षिर्वै महातपाः।
स पञ्चधा तु भूत्वा तां रमयामास सर्वतः॥ 1-212-13(9282)
नालायनीं सुकेशान्तां मौद्गल्यश्चारुहासिनीम्।
आश्रमेष्वधिकं चापि पूज्यमानो महर्षिभिः॥ 1-212-14(9283)
स चचार यथाकामं कामरूपवपुः पुनः।
यदा ययौ दिवं चापि तत्र देवर्षिभिः सह॥ 1-212-15(9284)
चचार सोऽमृताहारः सुरलोके चचार ह।
पूज्यमानस्तथा शच्या शक्रस्य भवनेष्वपि॥ 1-212-16(9285)
महेन्द्रसेनया सार्धं पर्यधावद्रिरंसया।
सूर्यस्य च रथं दिव्यमारुह्य भगवान्प्रभुः॥ 1-212-17(9286)
पर्युपेत्य पुनर्मेरु मेरौ वासमरोचयत्।
आकाशगङ्गामाप्लुत्य तया सह तपोधनः॥ 1-212-18(9287)
रश्मिजालेषु चन्द्रस्य उवाच च यथाऽनिलः।
गिरिरूपधरो योगी स महर्षिस्तदा पुनः॥ 1-212-19(9288)
तत्प्रभावेन सा तस्य मध्ये जज्ञे महानदी।
यदा पुष्पाकुलः सालः संजज्ञे भगवानृषिः॥ 1-212-20(9289)
लतात्वमनुसंपेदे तमेवाभ्यनुवेष्टती।
पुपोष च वपुर्यस्य तस्य तस्यानुगं पुनः॥ 1-212-21(9290)
सा पुपोष समं भर्त्रा स्कन्धेनापि चचार ह।
ततस्तस्य च तस्याश्च तुल्या प्रीतिरवर्धत॥ 1-212-22(9291)
तथा सा भगवांस्तस्याः प्रसादादृषिसत्तमः।
विरराम च सा चैव दैवयोगेन भामिनी॥ 1-212-23(9292)
स च तां तपसा देवीं रमयामास योगतः।
एकपत्नी तथा भूत्वा सदैवाग्रे यशस्विनी॥ 1-212-24(9293)
अरुन्धतीव सीतेव बभूवातिपतिव्रता।
दमयन्त्याश्च मातुः स विशेषमधिकं ययौ॥ 1-212-25(9294)
एतत्तथ्यं महाराज मा ते भूद्बुद्धिरन्यथा।
सा वै नालायनी जज्ञे दैवयोगेन केनचित्॥ 1-212-26(9295)
राजंस्तवात्मजा कृष्णा वेद्यां तेजस्विनी शुभा।
तस्मिंस्तस्या मनः सक्तं न चचाल कदाचन॥ 1-212-27(9296)
तथा प्रणिहितो ह्यात्मा तस्यास्तस्मिन्द्विजोत्तमे॥ ॥ 1-212-28(9297)
इति श्रीमन्महाभारते आदिपर्वणि वैवाहिकपर्वणि द्वादशाधिकद्विशततमोऽध्यायः॥ 212 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-212-1 मातुः मात्रा। स्यात् अभूत्॥ 1-212-10 कथं केन प्रकारेण॥ 1-212-22 स्कन्धेन मानुषादिदेहेन॥ द्वादशाधिकद्विशततमोऽध्यायः॥ 212 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|